Ṛk 5.33.4
Saṃhitā
पु॒रू यत्त॑ इंद्र॒ संत्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् ।
त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥
पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् |
ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित् ||
purū́ yátta indra sántyukthā́ gáve cakárthorvárāsu yúdhyan ǀ
tatakṣé sū́ryāya cidókasi své vṛ́ṣā samátsu dāsásya nā́ma cit ǁ
purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan |
tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit ||
Padapāṭha
पु॒रु । यत् । ते॒ । इ॒न्द्र॒ । सन्ति॑ । उ॒क्था । गवे॑ । च॒कर्थ॑ । उ॒र्वरा॑सु । युध्य॑न् ।
त॒त॒क्षे । सूर्या॑य । चि॒त् । ओक॑सि । स्वे । वृषा॑ । स॒मत्ऽसु॑ । दा॒सस्य॑ । नाम॑ । चि॒त् ॥
पुरु । यत् । ते । इन्द्र । सन्ति । उक्था । गवे । चकर्थ । उर्वरासु । युध्यन् ।
ततक्षे । सूर्याय । चित् । ओकसि । स्वे । वृषा । समत्ऽसु । दासस्य । नाम । चित् ॥
purú ǀ yát ǀ te ǀ indra ǀ sánti ǀ ukthā́ ǀ gáve ǀ cakártha ǀ urvárāsu ǀ yúdhyan ǀ
tatakṣé ǀ sū́ryāya ǀ cit ǀ ókasi ǀ své ǀ vṛ́ṣā ǀ samát-su ǀ dāsásya ǀ nā́ma ǀ cit ǁ
puru ǀ yat ǀ te ǀ indra ǀ santi ǀ ukthā ǀ gave ǀ cakartha ǀ urvarāsu ǀ yudhyan ǀ
tatakṣe ǀ sūryāya ǀ cit ǀ okasi ǀ sve ǀ vṛṣā ǀ samat-su ǀ dāsasya ǀ nāma ǀ cit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.033.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.01.04
- Maṇḍala · Anuvāka · Ṛk
- 05.03.004
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.