Ṛk 5.33.8
Saṃhitā
उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः ।
वहं॑तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥
उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः |
वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे ||
utá tyé mā paurukutsyásya sūréstrasádasyorhiraṇíno rárāṇāḥ ǀ
váhantu mā dáśa śyétāso asya gairikṣitásya krátubhirnú saśce ǁ
uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ |
vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce ||
Padapāṭha
उ॒त । त्ये । मा॒ । पौ॒रु॒ऽकु॒त्स्यस्य॑ । सू॒रेः । त्र॒सद॑स्योः । हि॒र॒णिनः॑ । ररा॑णाः ।
वह॑न्तु । मा॒ । दश॑ । श्येता॑सः । अ॒स्य॒ । गै॒रि॒ऽक्षि॒तस्य॑ । क्रतु॑ऽभिः । नु । स॒श्चे॒ ॥
उत । त्ये । मा । पौरुऽकुत्स्यस्य । सूरेः । त्रसदस्योः । हिरणिनः । रराणाः ।
वहन्तु । मा । दश । श्येतासः । अस्य । गैरिऽक्षितस्य । क्रतुऽभिः । नु । सश्चे ॥
utá ǀ tyé ǀ mā ǀ pauru-kutsyásya ǀ sūréḥ ǀ trasádasyoḥ ǀ hiraṇínaḥ ǀ rárāṇāḥ ǀ
váhantu ǀ mā ǀ dáśa ǀ śyétāsaḥ ǀ asya ǀ gairi-kṣitásya ǀ krátu-bhiḥ ǀ nú ǀ saśce ǁ
uta ǀ tye ǀ mā ǀ pauru-kutsyasya ǀ sūreḥ ǀ trasadasyoḥ ǀ hiraṇinaḥ ǀ rarāṇāḥ ǀ
vahantu ǀ mā ǀ daśa ǀ śyetāsaḥ ǀ asya ǀ gairi-kṣitasya ǀ kratu-bhiḥ ǀ nu ǀ saśce ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.033.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.02.03
- Maṇḍala · Anuvāka · Ṛk
- 05.03.008
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.