Ṛk 5.33.6
Saṃhitā
प॒पृ॒क्षेण्य॑मिंद्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः ।
स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दानं॑ ॥
पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः |
स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ||
papṛkṣéṇyamindra tvé hyójo nṛmṇā́ni ca nṛtámāno ámartaḥ ǀ
sá na énīm vasavāno rayím dāḥ prā́ryáḥ stuṣe tuvimaghásya dā́nam ǁ
papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ |
sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam ||
Padapāṭha
प॒पृ॒क्षेण्य॑म् । इ॒न्द्र॒ । त्वे इति॑ । हि । ओजः॑ । नृ॒म्णानि॑ । च॒ । नृ॒तमा॑नः । अम॑र्तः ।
सः । नः॒ । एनी॑म् । व॒स॒वा॒नः॒ । र॒यिम् । दाः॒ । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒ऽम॒घस्य॑ । दान॑म् ॥
पपृक्षेण्यम् । इन्द्र । त्वे इति । हि । ओजः । नृम्णानि । च । नृतमानः । अमर्तः ।
सः । नः । एनीम् । वसवानः । रयिम् । दाः । प्र । अर्यः । स्तुषे । तुविऽमघस्य । दानम् ॥
papṛkṣéṇyam ǀ indra ǀ tvé íti ǀ hí ǀ ójaḥ ǀ nṛmṇā́ni ǀ ca ǀ nṛtámānaḥ ǀ ámartaḥ ǀ
sáḥ ǀ naḥ ǀ énīm ǀ vasavānaḥ ǀ rayím ǀ dāḥ ǀ prá ǀ aryáḥ ǀ stuṣe ǀ tuvi-maghásya ǀ dā́nam ǁ
papṛkṣeṇyam ǀ indra ǀ tve iti ǀ hi ǀ ojaḥ ǀ nṛmṇāni ǀ ca ǀ nṛtamānaḥ ǀ amartaḥ ǀ
saḥ ǀ naḥ ǀ enīm ǀ vasavānaḥ ǀ rayim ǀ dāḥ ǀ pra ǀ aryaḥ ǀ stuṣe ǀ tuvi-maghasya ǀ dānam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.033.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.02.01
- Maṇḍala · Anuvāka · Ṛk
- 05.03.006
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.