Ṛk 5.2.11
Saṃhitā
ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षं ।
यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः॒ स्व॑र्वतीर॒प ए॑ना जयेम ॥
एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् |
यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना जयेम ||
etám te stómam tuvijāta vípro rátham ná dhī́raḥ svápā atakṣam ǀ
yádī́dagne práti tvám deva háryāḥ svárvatīrapá enā jayema ǁ
etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam |
yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema ||
Padapāṭha
ए॒तम् । ते॒ । स्तोम॑म् । तु॒वि॒ऽजा॒त॒ । विप्रः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ।
यदि॑ । इत् । अ॒ग्ने॒ । प्रति॑ । त्वम् । दे॒व॒ । हर्याः॑ । स्वः॑ऽवतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥
एतम् । ते । स्तोमम् । तुविऽजात । विप्रः । रथम् । न । धीरः । सुऽअपाः । अतक्षम् ।
यदि । इत् । अग्ने । प्रति । त्वम् । देव । हर्याः । स्वःऽवतीः । अपः । एन । जयेम ॥
etám ǀ te ǀ stómam ǀ tuvi-jāta ǀ vípraḥ ǀ rátham ǀ ná ǀ dhī́raḥ ǀ su-ápāḥ ǀ atakṣam ǀ
yádi ǀ ít ǀ agne ǀ práti ǀ tvám ǀ deva ǀ háryāḥ ǀ sváḥ-vatīḥ ǀ apáḥ ǀ ena ǀ jayema ǁ
etam ǀ te ǀ stomam ǀ tuvi-jāta ǀ vipraḥ ǀ ratham ǀ na ǀ dhīraḥ ǀ su-apāḥ ǀ atakṣam ǀ
yadi ǀ it ǀ agne ǀ prati ǀ tvam ǀ deva ǀ haryāḥ ǀ svaḥ-vatīḥ ǀ apaḥ ǀ ena ǀ jayema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.002.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.15.05
- Maṇḍala · Anuvāka · Ṛk
- 05.01.023
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1, 3-8, 10-12: Kumāra Ātreya Or Vṛśa Jāna Or Both Together; 2, 9: Vṛśa Jāna
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.