Ṛk 5.2.12
Saṃhitā
तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१॒॑र्यः सम॑जाति॒ वेदः॑ ।
इती॒मम॒ग्निम॒मृता॑ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥
तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अर्यः सम् अजाति वेदः |
इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यंसद् धविष्मते मनवे शर्म यंसत् ||
tuvigrī́vo vṛṣabhó vāvṛdhānó’śatrváryáḥ sámajāti védaḥ ǀ
ítīmámagnímamṛ́tā avocanbarhíṣmate mánave śárma yaṃsaddhavíṣmate mánave śárma yaṃsat ǁ
tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ |
itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat ||
Padapāṭha
तु॒वि॒ऽग्रीवः॑ । वृ॒ष॒भः । व॒वृ॒धा॒नः । अ॒श॒त्रु । अ॒र्यः । सम् । अ॒जा॒ति॒ । वेदः॑ ।
इति॑ । इ॒मम् । अ॒ग्निम् । अ॒मृताः॑ । अ॒वो॒च॒न् । ब॒र्हिष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् । ह॒विष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् ॥
तुविऽग्रीवः । वृषभः । ववृधानः । अशत्रु । अर्यः । सम् । अजाति । वेदः ।
इति । इमम् । अग्निम् । अमृताः । अवोचन् । बर्हिष्मते । मनवे । शर्म । यंसत् । हविष्मते । मनवे । शर्म । यंसत् ॥
tuvi-grī́vaḥ ǀ vṛṣabháḥ ǀ vavṛdhānáḥ ǀ aśatrú ǀ aryáḥ ǀ sám ǀ ajāti ǀ védaḥ ǀ
íti ǀ imám ǀ agním ǀ amṛ́tāḥ ǀ avocan ǀ barhíṣmate ǀ mánave ǀ śárma ǀ yaṃsat ǀ havíṣmate ǀ mánave ǀ śárma ǀ yaṃsat ǁ
tuvi-grīvaḥ ǀ vṛṣabhaḥ ǀ vavṛdhānaḥ ǀ aśatru ǀ aryaḥ ǀ sam ǀ ajāti ǀ vedaḥ ǀ
iti ǀ imam ǀ agnim ǀ amṛtāḥ ǀ avocan ǀ barhiṣmate ǀ manave ǀ śarma ǀ yaṃsat ǀ haviṣmate ǀ manave ǀ śarma ǀ yaṃsat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.002.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.15.06
- Maṇḍala · Anuvāka · Ṛk
- 05.01.024
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1, 3-8, 10-12: Kumāra Ātreya Or Vṛśa Jāna Or Both Together; 2, 9: Vṛśa Jāna
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.