Ṛk 5.2.4
Saṃhitā
क्षेत्रा॑दपश्यं सनु॒तश्चरं॑तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानं ।
न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवंति ॥
क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु शोभमानम् |
न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति ||
kṣétrādapaśyam sanutáścárantam sumádyūthám ná purú śóbhamānam ǀ
ná tā́ agṛbhrannájaniṣṭa hí ṣáḥ páliknīrídyuvatáyo bhavanti ǁ
kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam |
na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti ||
Padapāṭha
क्षेत्रा॑त् । अ॒प॒श्य॒म् । स॒नु॒तरिति॑ । चर॑न्तम् । सु॒ऽमत् । यू॒थम् । न । पु॒रु । शोभ॑मानम् ।
न । ताः । अ॒गृ॒भ्र॒न् । अज॑निष्ट । हि । सः । पलि॑क्नीः । इत् । यु॒व॒तयः॑ । भ॒व॒न्ति॒ ॥
क्षेत्रात् । अपश्यम् । सनुतरिति । चरन्तम् । सुऽमत् । यूथम् । न । पुरु । शोभमानम् ।
न । ताः । अगृभ्रन् । अजनिष्ट । हि । सः । पलिक्नीः । इत् । युवतयः । भवन्ति ॥
kṣétrāt ǀ apaśyam ǀ sanutáríti ǀ cárantam ǀ su-mát ǀ yūthám ǀ ná ǀ purú ǀ śóbhamānam ǀ
ná ǀ tā́ḥ ǀ agṛbhran ǀ ájaniṣṭa ǀ hí ǀ sáḥ ǀ páliknīḥ ǀ ít ǀ yuvatáyaḥ ǀ bhavanti ǁ
kṣetrāt ǀ apaśyam ǀ sanutariti ǀ carantam ǀ su-mat ǀ yūtham ǀ na ǀ puru ǀ śobhamānam ǀ
na ǀ tāḥ ǀ agṛbhran ǀ ajaniṣṭa ǀ hi ǀ saḥ ǀ paliknīḥ ǀ it ǀ yuvatayaḥ ǀ bhavanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.002.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.14.04
- Maṇḍala · Anuvāka · Ṛk
- 05.01.016
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1, 3-8, 10-12: Kumāra Ātreya Or Vṛśa Jāna Or Both Together; 2, 9: Vṛśa Jāna
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.