Ṛk 5.2.9
Saṃhitā
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृंगे॒ रक्ष॑से वि॒निक्षे॑ ॥
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा |
प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ||
ví jyótiṣā bṛhatā́ bhātyagnírāvírvíśvāni kṛṇute mahitvā́ ǀ
prā́devīrmāyā́ḥ sahate durévāḥ śíśīte śṛ́ṅge rákṣase viníkṣe ǁ
vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā |
prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe ||
Padapāṭha
वि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा ।
प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दुः॒ऽएवाः॑ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒ऽनिक्षे॑ ॥
वि । ज्योतिषा । बृहता । भाति । अग्निः । आविः । विश्वानि । कृणुते । महिऽत्वा ।
प्र । अदेवीः । मायाः । सहते । दुःऽएवाः । शिशीते । शृङ्गे इति । रक्षसे । विऽनिक्षे ॥
ví ǀ jyótiṣā ǀ bṛhatā́ ǀ bhāti ǀ agníḥ ǀ āvíḥ ǀ víśvāni ǀ kṛṇute ǀ mahi-tvā́ ǀ
prá ǀ ádevīḥ ǀ māyā́ḥ ǀ sahate ǀ duḥ-évāḥ ǀ śíśīte ǀ śṛ́ṅge íti ǀ rákṣase ǀ vi-níkṣe ǁ
vi ǀ jyotiṣā ǀ bṛhatā ǀ bhāti ǀ agniḥ ǀ āviḥ ǀ viśvāni ǀ kṛṇute ǀ mahi-tvā ǀ
pra ǀ adevīḥ ǀ māyāḥ ǀ sahate ǀ duḥ-evāḥ ǀ śiśīte ǀ śṛṅge iti ǀ rakṣase ǀ vi-nikṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.002.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.15.03
- Maṇḍala · Anuvāka · Ṛk
- 05.01.021
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1, 3-8, 10-12: Kumāra Ātreya Or Vṛśa Jāna Or Both Together; 2, 9: Vṛśa Jāna
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.