Ṛk 5.2.2
Saṃhitā
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।
पू॒र्वीर्हि गर्भः॑ श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥
कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी जजान |
पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद् असूत माता ||
kámetám tvám yuvate kumārám péṣī bibharṣi máhiṣī jajāna ǀ
pūrvī́rhí gárbhaḥ śarádo vavárdhā́paśyam jātám yádásūta mātā́ ǁ
kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna |
pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā ||
Padapāṭha
कम् । ए॒तम् । त्वम् । यु॒व॒ते॒ । कु॒मा॒रम् । पेषी॑ । बि॒भ॒र्षि॒ । महि॑षी । ज॒जा॒न॒ ।
पू॒र्वीः । हि । गर्भः॑ । श॒रदः॑ । व॒वर्ध॑ । अप॑श्यम् । जा॒तम् । यत् । असू॑त । मा॒ता ॥
कम् । एतम् । त्वम् । युवते । कुमारम् । पेषी । बिभर्षि । महिषी । जजान ।
पूर्वीः । हि । गर्भः । शरदः । ववर्ध । अपश्यम् । जातम् । यत् । असूत । माता ॥
kám ǀ etám ǀ tvám ǀ yuvate ǀ kumārám ǀ péṣī ǀ bibharṣi ǀ máhiṣī ǀ jajāna ǀ
pūrvī́ḥ ǀ hí ǀ gárbhaḥ ǀ śarádaḥ ǀ vavárdha ǀ ápaśyam ǀ jātám ǀ yát ǀ ásūta ǀ mātā́ ǁ
kam ǀ etam ǀ tvam ǀ yuvate ǀ kumāram ǀ peṣī ǀ bibharṣi ǀ mahiṣī ǀ jajāna ǀ
pūrvīḥ ǀ hi ǀ garbhaḥ ǀ śaradaḥ ǀ vavardha ǀ apaśyam ǀ jātam ǀ yat ǀ asūta ǀ mātā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.002.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.14.02
- Maṇḍala · Anuvāka · Ṛk
- 05.01.014
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1, 3-8, 10-12: Kumāra Ātreya Or Vṛśa Jāna Or Both Together; 2, 9: Vṛśa Jāna
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.