Ṛk 5.3.1
Saṃhitā
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः ।
त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिंद्रो॑ दा॒शुषे॒ मर्त्या॑य ॥
त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः |
त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय ||
tvámagne váruṇo jā́yase yáttvám mitró bhavasi yátsámiddhaḥ ǀ
tvé víśve sahasasputra devā́stvámíndro dāśúṣe mártyāya ǁ
tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ |
tve viśve sahasas putra devās tvam indro dāśuṣe martyāya ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । वरु॑णः । जाय॑से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।
त्वे इति॑ । विश्वे॑ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः॑ । दा॒शुषे॑ । मर्त्या॑य ॥
त्वम् । अग्ने । वरुणः । जायसे । यत् । त्वम् । मित्रः । भवसि । यत् । सम्ऽइद्धः ।
त्वे इति । विश्वे । सहसः । पुत्र । देवाः । त्वम् । इन्द्रः । दाशुषे । मर्त्याय ॥
tvám ǀ agne ǀ váruṇaḥ ǀ jā́yase ǀ yát ǀ tvám ǀ mitráḥ ǀ bhavasi ǀ yát ǀ sám-iddhaḥ ǀ
tvé íti ǀ víśve ǀ sahasaḥ ǀ putra ǀ devā́ḥ ǀ tvám ǀ índraḥ ǀ dāśúṣe ǀ mártyāya ǁ
tvam ǀ agne ǀ varuṇaḥ ǀ jāyase ǀ yat ǀ tvam ǀ mitraḥ ǀ bhavasi ǀ yat ǀ sam-iddhaḥ ǀ
tve iti ǀ viśve ǀ sahasaḥ ǀ putra ǀ devāḥ ǀ tvam ǀ indraḥ ǀ dāśuṣe ǀ martyāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.003.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.16.01
- Maṇḍala · Anuvāka · Ṛk
- 05.01.025
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.