Ṛk 5.3.11
Saṃhitā
त्वमं॒ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि ।
स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥
त्वम् अङ्ग जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि |
स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन् ||
tvámaṅgá jaritā́ram yaviṣṭha víśvānyagne duritā́ti parṣi ǀ
stenā́ adṛśranripávo jánāsó’jñātaketā vṛjinā́ abhūvan ǁ
tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi |
stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan ||
Padapāṭha
त्वम् । अ॒ङ्ग । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । विश्वा॑नि । अ॒ग्ने॒ । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।
स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः॑ । जना॑सः । अज्ञा॑तऽकेताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥
त्वम् । अङ्ग । जरितारम् । यविष्ठ । विश्वानि । अग्ने । दुःऽइता । अति । पर्षि ।
स्तेनाः । अदृश्रन् । रिपवः । जनासः । अज्ञातऽकेताः । वृजिनाः । अभूवन् ॥
tvám ǀ aṅgá ǀ jaritā́ram ǀ yaviṣṭha ǀ víśvāni ǀ agne ǀ duḥ-itā́ ǀ áti ǀ parṣi ǀ
stenā́ḥ ǀ adṛśran ǀ ripávaḥ ǀ jánāsaḥ ǀ ájñāta-ketāḥ ǀ vṛjinā́ḥ ǀ abhūvan ǁ
tvam ǀ aṅga ǀ jaritāram ǀ yaviṣṭha ǀ viśvāni ǀ agne ǀ duḥ-itā ǀ ati ǀ parṣi ǀ
stenāḥ ǀ adṛśran ǀ ripavaḥ ǀ janāsaḥ ǀ ajñāta-ketāḥ ǀ vṛjināḥ ǀ abhūvan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.003.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.17.05
- Maṇḍala · Anuvāka · Ṛk
- 05.01.035
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.