Ṛk 5.3.12
Saṃhitā
इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि ।
नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥
इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि |
नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात् ||
imé yā́māsastvadrígabhūvanvásave vā tádídā́go avāci ǀ
nā́hāyámagnírabhíśastaye no ná rī́ṣate vāvṛdhānáḥ párā dāt ǁ
ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci |
nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ||
Padapāṭha
इ॒मे । यामा॑सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस॑वे । वा॒ । तत् । इत् । आगः॑ । अ॒वा॒चि॒ ।
न । अह॑ । अ॒यम् । अ॒ग्निः । अ॒भिऽश॑स्तये । नः॒ । न । रिष॑ते । व॒वृ॒धा॒नः । परा॑ । दा॒त् ॥
इमे । यामासः । त्वद्रिक् । अभूवन् । वसवे । वा । तत् । इत् । आगः । अवाचि ।
न । अह । अयम् । अग्निः । अभिऽशस्तये । नः । न । रिषते । ववृधानः । परा । दात् ॥
imé ǀ yā́māsaḥ ǀ tvadrík ǀ abhūvan ǀ vásave ǀ vā ǀ tát ǀ ít ǀ ā́gaḥ ǀ avāci ǀ
ná ǀ áha ǀ ayám ǀ agníḥ ǀ abhí-śastaye ǀ naḥ ǀ ná ǀ ríṣate ǀ vavṛdhānáḥ ǀ párā ǀ dāt ǁ
ime ǀ yāmāsaḥ ǀ tvadrik ǀ abhūvan ǀ vasave ǀ vā ǀ tat ǀ it ǀ āgaḥ ǀ avāci ǀ
na ǀ aha ǀ ayam ǀ agniḥ ǀ abhi-śastaye ǀ naḥ ǀ na ǀ riṣate ǀ vavṛdhānaḥ ǀ parā ǀ dāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.003.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.17.06
- Maṇḍala · Anuvāka · Ṛk
- 05.01.036
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.