Ṛk 5.3.5
Saṃhitā
न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यैः॑ प॒रो अ॑स्ति स्वधावः ।
वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥
न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः |
विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान् ||
ná tváddhótā pū́rvo agne yájīyānná kā́vyaiḥ paró asti svadhāvaḥ ǀ
viśáśca yásyā átithirbhávāsi sá yajñéna vanavaddeva mártān ǁ
na tvad dhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ |
viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān ||
Padapāṭha
न । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । न । काव्यैः॑ । प॒रः । अ॒स्ति॒ । स्व॒धा॒ऽवः॒ ।
वि॒शः । च॒ । यस्याः॑ । अति॑थिः । भवा॑सि । सः । य॒ज्ञेन॑ । व॒न॒व॒त् । दे॒व॒ । मर्ता॑न् ॥
न । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । न । काव्यैः । परः । अस्ति । स्वधाऽवः ।
विशः । च । यस्याः । अतिथिः । भवासि । सः । यज्ञेन । वनवत् । देव । मर्तान् ॥
ná ǀ tvát ǀ hótā ǀ pū́rvaḥ ǀ agne ǀ yájīyān ǀ ná ǀ kā́vyaiḥ ǀ paráḥ ǀ asti ǀ svadhā-vaḥ ǀ
viśáḥ ǀ ca ǀ yásyāḥ ǀ átithiḥ ǀ bhávāsi ǀ sáḥ ǀ yajñéna ǀ vanavat ǀ deva ǀ mártān ǁ
na ǀ tvat ǀ hotā ǀ pūrvaḥ ǀ agne ǀ yajīyān ǀ na ǀ kāvyaiḥ ǀ paraḥ ǀ asti ǀ svadhā-vaḥ ǀ
viśaḥ ǀ ca ǀ yasyāḥ ǀ atithiḥ ǀ bhavāsi ǀ saḥ ǀ yajñena ǀ vanavat ǀ deva ǀ martān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.003.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.16.05
- Maṇḍala · Anuvāka · Ṛk
- 05.01.029
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.