Ṛk 5.3.8
Saṃhitā
त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजंत ह॒व्यैः ।
सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥
त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः |
संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर् इध्यमानः ||
tvā́masyā́ vyúṣi deva pū́rve dūtám kṛṇvānā́ ayajanta havyáiḥ ǀ
saṃsthé yádagna ī́yase rayīṇā́m devó mártairvásubhiridhyámānaḥ ǁ
tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ |
saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ ||
Padapāṭha
त्वाम् । अ॒स्याः । वि॒ऽउषि॑ । दे॒व॒ । पूर्वे॑ । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । ह॒व्यैः ।
स॒म्ऽस्थे । यत् । अ॒ग्ने॒ । ईय॑से । र॒यी॒णाम् । दे॒वः । मर्तैः॑ । वसु॑ऽभिः । इ॒ध्यमा॑नः ॥
त्वाम् । अस्याः । विऽउषि । देव । पूर्वे । दूतम् । कृण्वानाः । अयजन्त । हव्यैः ।
सम्ऽस्थे । यत् । अग्ने । ईयसे । रयीणाम् । देवः । मर्तैः । वसुऽभिः । इध्यमानः ॥
tvā́m ǀ asyā́ḥ ǀ vi-úṣi ǀ deva ǀ pū́rve ǀ dūtám ǀ kṛṇvānā́ḥ ǀ ayajanta ǀ havyáiḥ ǀ
sam-sthé ǀ yát ǀ agne ǀ ī́yase ǀ rayīṇā́m ǀ deváḥ ǀ mártaiḥ ǀ vásu-bhiḥ ǀ idhyámānaḥ ǁ
tvām ǀ asyāḥ ǀ vi-uṣi ǀ deva ǀ pūrve ǀ dūtam ǀ kṛṇvānāḥ ǀ ayajanta ǀ havyaiḥ ǀ
sam-sthe ǀ yat ǀ agne ǀ īyase ǀ rayīṇām ǀ devaḥ ǀ martaiḥ ǀ vasu-bhiḥ ǀ idhyamānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.003.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.17.02
- Maṇḍala · Anuvāka · Ṛk
- 05.01.032
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.