Ṛk 5.3.2
Saṃhitā
त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि ।
अं॒जंति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दंप॑ती॒ सम॑नसा कृ॒णोषि॑ ॥
त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम् बिभर्षि |
अञ्जन्ति मित्रं सुधितं न गोभिर् यद् दम्पती समनसा कृणोषि ||
tvámaryamā́ bhavasi yátkanī́nām nā́ma svadhāvangúhyam bibharṣi ǀ
añjánti mitrám súdhitam ná góbhiryáddámpatī sámanasā kṛṇóṣi ǁ
tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi |
añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi ||
Padapāṭha
त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना॑म् । नाम॑ । स्व॒धा॒ऽव॒न् । गुह्य॑म् । बि॒भ॒र्षि॒ ।
अ॒ञ्जन्ति॑ । मि॒त्रम् । सुऽधि॑तम् । न । गोभिः॑ । यत् । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । कृ॒णोषि॑ ॥
त्वम् । अर्यमा । भवसि । यत् । कनीनाम् । नाम । स्वधाऽवन् । गुह्यम् । बिभर्षि ।
अञ्जन्ति । मित्रम् । सुऽधितम् । न । गोभिः । यत् । दम्पती इति दम्ऽपती । सऽमनसा । कृणोषि ॥
tvám ǀ aryamā́ ǀ bhavasi ǀ yát ǀ kanī́nām ǀ nā́ma ǀ svadhā-van ǀ gúhyam ǀ bibharṣi ǀ
añjánti ǀ mitrám ǀ sú-dhitam ǀ ná ǀ góbhiḥ ǀ yát ǀ dámpatī íti dám-patī ǀ sá-manasā ǀ kṛṇóṣi ǁ
tvam ǀ aryamā ǀ bhavasi ǀ yat ǀ kanīnām ǀ nāma ǀ svadhā-van ǀ guhyam ǀ bibharṣi ǀ
añjanti ǀ mitram ǀ su-dhitam ǀ na ǀ gobhiḥ ǀ yat ǀ dampatī iti dam-patī ǀ sa-manasā ǀ kṛṇoṣi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.003.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.16.02
- Maṇḍala · Anuvāka · Ṛk
- 05.01.026
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.