Ṛk 5.31.10
Saṃhitā
वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।
विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इंद्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥
वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः |
विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन् ||
vā́tasya yuktā́ntsuyújaścidáśvānkavíścideṣó ajagannavasyúḥ ǀ
víśve te átra marútaḥ sákhāya índra bráhmāṇi táviṣīmavardhan ǁ
vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ |
viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan ||
Padapāṭha
वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः ।
विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥
वातस्य । युक्तान् । सुऽयुजः । चित् । अश्वान् । कविः । चित् । एषः । अजगन् । अवस्युः ।
विश्वे । ते । अत्र । मरुतः । सखायः । इन्द्र । ब्रह्माणि । तविषीम् । अवर्धन् ॥
vā́tasya ǀ yuktā́n ǀ su-yújaḥ ǀ cit ǀ áśvān ǀ kavíḥ ǀ cit ǀ eṣáḥ ǀ ajagan ǀ avasyúḥ ǀ
víśve ǀ te ǀ átra ǀ marútaḥ ǀ sákhāyaḥ ǀ índra ǀ bráhmāṇi ǀ táviṣīm ǀ avardhan ǁ
vātasya ǀ yuktān ǀ su-yujaḥ ǀ cit ǀ aśvān ǀ kaviḥ ǀ cit ǀ eṣaḥ ǀ ajagan ǀ avasyuḥ ǀ
viśve ǀ te ǀ atra ǀ marutaḥ ǀ sakhāyaḥ ǀ indra ǀ brahmāṇi ǀ taviṣīm ǀ avardhan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.031.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.30.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.115
- Devatā देवता
- 1-7, 10-13: Indra; 8: Indra (B); Indra Or Kutsa (C); Indra Or Uśanas (D); 9: Indra, Kutsa
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.