Ṛk 5.31.6
Saṃhitā
प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ ।
शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥
प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ |
शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः ||
prá te pū́rvāṇi káraṇāni vocam prá nū́tanā maghavanyā́ cakártha ǀ
śáktīvo yádvibhárā ródasī ubhé jáyannapó mánave dā́nucitrāḥ ǁ
pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha |
śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ ||
Padapāṭha
प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वो॒च॒म् । प्र । नूत॑ना । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।
शक्ति॑ऽवः । यत् । वि॒ऽभराः॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जय॑न् । अ॒पः । मन॑वे । दानु॑ऽचित्राः ॥
प्र । ते । पूर्वाणि । करणानि । वोचम् । प्र । नूतना । मघऽवन् । या । चकर्थ ।
शक्तिऽवः । यत् । विऽभराः । रोदसी इति । उभे इति । जयन् । अपः । मनवे । दानुऽचित्राः ॥
prá ǀ te ǀ pū́rvāṇi ǀ káraṇāni ǀ vocam ǀ prá ǀ nū́tanā ǀ magha-van ǀ yā́ ǀ cakártha ǀ
śákti-vaḥ ǀ yát ǀ vi-bhárāḥ ǀ ródasī íti ǀ ubhé íti ǀ jáyan ǀ apáḥ ǀ mánave ǀ dā́nu-citrāḥ ǁ
pra ǀ te ǀ pūrvāṇi ǀ karaṇāni ǀ vocam ǀ pra ǀ nūtanā ǀ magha-van ǀ yā ǀ cakartha ǀ
śakti-vaḥ ǀ yat ǀ vi-bharāḥ ǀ rodasī iti ǀ ubhe iti ǀ jayan ǀ apaḥ ǀ manave ǀ dānu-citrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.031.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.30.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.111
- Devatā देवता
- 1-7, 10-13: Indra; 8: Indra (B); Indra Or Kutsa (C); Indra Or Uśanas (D); 9: Indra, Kutsa
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.