Ṛk 5.31.11
Saṃhitā
सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांसं॑ ।
भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥
सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं जूजुवांसम् |
भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति क्रतुं नः ||
sū́raścidrátham páritakmyāyām pū́rvam karadúparam jūjuvā́ṃsam ǀ
bháraccakrámétaśaḥ sám riṇāti puró dádhatsaniṣyati krátum naḥ ǁ
sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam |
bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ ||
Padapāṭha
सूरः॑ । चि॒त् । रथ॑म् । परि॑ऽतक्म्यायाम् । पूर्व॑म् । क॒र॒त् । उप॑रम् । जू॒जु॒ऽवांस॑म् ।
भर॑त् । च॒क्रम् । एत॑शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒ति॒ । क्रतु॑म् । नः॒ ॥
सूरः । चित् । रथम् । परिऽतक्म्यायाम् । पूर्वम् । करत् । उपरम् । जूजुऽवांसम् ।
भरत् । चक्रम् । एतशः । सम् । रिणाति । पुरः । दधत् । सनिष्यति । क्रतुम् । नः ॥
sū́raḥ ǀ cit ǀ rátham ǀ pári-takmyāyām ǀ pū́rvam ǀ karat ǀ úparam ǀ jūju-vā́ṃsam ǀ
bhárat ǀ cakrám ǀ étaśaḥ ǀ sám ǀ riṇāti ǀ puráḥ ǀ dádhat ǀ saniṣyati ǀ krátum ǀ naḥ ǁ
sūraḥ ǀ cit ǀ ratham ǀ pari-takmyāyām ǀ pūrvam ǀ karat ǀ uparam ǀ jūju-vāṃsam ǀ
bharat ǀ cakram ǀ etaśaḥ ǀ sam ǀ riṇāti ǀ puraḥ ǀ dadhat ǀ saniṣyati ǀ kratum ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.031.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.31.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.116
- Devatā देवता
- 1-7, 10-13: Indra; 8: Indra (B); Indra Or Kutsa (C); Indra Or Uśanas (D); 9: Indra, Kutsa
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.