Ṛk 5.31.5
Saṃhitā
वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निंद्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ ।
अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इंद्रे॑षिता अ॒भ्यव॑र्तंत॒ दस्यू॑न् ॥
वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः |
अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून् ||
vṛ́ṣṇe yátte vṛ́ṣaṇo arkámárcāníndra grā́vāṇo áditiḥ sajóṣāḥ ǀ
anaśvā́so yé paváyo’rathā́ índreṣitā abhyávartanta dásyūn ǁ
vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ |
anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn ||
Padapāṭha
वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ ।
अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥
वृष्णे । यत् । ते । वृषणः । अर्कम् । अर्चान् । इन्द्र । ग्रावाणः । अदितिः । सऽजोषाः ।
अनश्वासः । ये । पवयः । अरथाः । इन्द्रऽइषिताः । अभि । अवर्तन्त । दस्यून् ॥
vṛ́ṣṇe ǀ yát ǀ te ǀ vṛ́ṣaṇaḥ ǀ arkám ǀ árcān ǀ índra ǀ grā́vāṇaḥ ǀ áditiḥ ǀ sa-jóṣāḥ ǀ
anaśvā́saḥ ǀ yé ǀ paváyaḥ ǀ arathā́ḥ ǀ índra-iṣitāḥ ǀ abhí ǀ ávartanta ǀ dásyūn ǁ
vṛṣṇe ǀ yat ǀ te ǀ vṛṣaṇaḥ ǀ arkam ǀ arcān ǀ indra ǀ grāvāṇaḥ ǀ aditiḥ ǀ sa-joṣāḥ ǀ
anaśvāsaḥ ǀ ye ǀ pavayaḥ ǀ arathāḥ ǀ indra-iṣitāḥ ǀ abhi ǀ avartanta ǀ dasyūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.031.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.29.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.110
- Devatā देवता
- 1-7, 10-13: Indra; 8: Indra (B); Indra Or Kutsa (C); Indra Or Uśanas (D); 9: Indra, Kutsa
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.