Ṛk 5.31.7
Saṃhitā
तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः ।
शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥
तद् इन् नु ते करणं दस्म विप्राहिं यद् घ्नन्न् ओजो अत्रामिमीथाः |
शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप दस्यूंर् असेधः ||
tádínnú te káraṇam dasma viprā́him yádghnánnójo átrā́mimīthāḥ ǀ
śúṣṇasya citpári māyā́ agṛbhṇāḥ prapitvám yánnápa dásyūm̐rasedhaḥ ǁ
tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ |
śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ ||
Padapāṭha
तत् । इत् । नु । ते॒ । कर॑णम् । द॒स्म॒ । वि॒प्र॒ । अहि॑म् । यत् । घ्नन् । ओजः॑ । अत्र॑ । अमि॑मीथाः ।
शुष्ण॑स्य । चि॒त् । परि॑ । मा॒याः । अ॒गृ॒भ्णाः॒ । प्र॒ऽपि॒त्वम् । यन् । अप॑ । दस्यू॑न् । अ॒से॒धः॒ ॥
तत् । इत् । नु । ते । करणम् । दस्म । विप्र । अहिम् । यत् । घ्नन् । ओजः । अत्र । अमिमीथाः ।
शुष्णस्य । चित् । परि । मायाः । अगृभ्णाः । प्रऽपित्वम् । यन् । अप । दस्यून् । असेधः ॥
tát ǀ ít ǀ nú ǀ te ǀ káraṇam ǀ dasma ǀ vipra ǀ áhim ǀ yát ǀ ghnán ǀ ójaḥ ǀ átra ǀ ámimīthāḥ ǀ
śúṣṇasya ǀ cit ǀ pári ǀ māyā́ḥ ǀ agṛbhṇāḥ ǀ pra-pitvám ǀ yán ǀ ápa ǀ dásyūn ǀ asedhaḥ ǁ
tat ǀ it ǀ nu ǀ te ǀ karaṇam ǀ dasma ǀ vipra ǀ ahim ǀ yat ǀ ghnan ǀ ojaḥ ǀ atra ǀ amimīthāḥ ǀ
śuṣṇasya ǀ cit ǀ pari ǀ māyāḥ ǀ agṛbhṇāḥ ǀ pra-pitvam ǀ yan ǀ apa ǀ dasyūn ǀ asedhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.031.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.30.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.112
- Devatā देवता
- 1-7, 10-13: Indra; 8: Indra (B); Indra Or Kutsa (C); Indra Or Uśanas (D); 9: Indra, Kutsa
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.