Ṛk 5.53.14
Saṃhitā
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।
वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥
अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः |
वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ||
átīyāma nidástiráḥ svastíbhirhitvā́vadyámárātīḥ ǀ
vṛṣṭvī́ śám yórā́pa usrí bheṣajám syā́ma marutaḥ sahá ǁ
atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ |
vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha ||
Padapāṭha
अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः ।
वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥
अति । इयाम । निदः । तिरः । स्वस्तिऽभिः । हित्वा । अवद्यम् । अरातीः ।
वृष्ट्वी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह ॥
áti ǀ iyāma ǀ nidáḥ ǀ tiráḥ ǀ svastí-bhiḥ ǀ hitvā́ ǀ avadyám ǀ árātīḥ ǀ
vṛṣṭvī́ ǀ sám ǀ yóḥ ǀ ā́paḥ ǀ usrí ǀ bheṣajám ǀ syā́ma ǀ marutaḥ ǀ sahá ǁ
ati ǀ iyāma ǀ nidaḥ ǀ tiraḥ ǀ svasti-bhiḥ ǀ hitvā ǀ avadyam ǀ arātīḥ ǀ
vṛṣṭvī ǀ sam ǀ yoḥ ǀ āpaḥ ǀ usri ǀ bheṣajam ǀ syāma ǀ marutaḥ ǀ saha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.053.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.13.04
- Maṇḍala · Anuvāka · Ṛk
- 05.04.087
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Gāyatrī, Bṛhatī, Anuṣṭubh, Pura-Uṣṇih
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.