Ṛk 7.80.2
Saṃhitā
ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि ।
अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निं ॥
एषा स्या नव्यम् आयुर् दधाना गूढ्वी तमो ज्योतिषोषा अबोधि |
अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं यज्ञम् अग्निम् ||
eṣā́ syā́ návyamā́yurdádhānā gūḍhvī́ támo jyótiṣoṣā́ abodhi ǀ
ágra eti yuvatíráhrayāṇā prā́cikitatsū́ryam yajñámagním ǁ
eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi |
agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim ||
Padapāṭha
ए॒षा । स्या । नव्य॑म् । आयुः॑ । दधा॑ना । गू॒ढ्वी । तमः॑ । ज्योति॑षा । उ॒षाः । अ॒बो॒धि॒ ।
अग्रे॑ । ए॒ति॒ । यु॒व॒तिः । अह्र॑याणा । प्र । अ॒चि॒कि॒त॒त् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् ॥
एषा । स्या । नव्यम् । आयुः । दधाना । गूढ्वी । तमः । ज्योतिषा । उषाः । अबोधि ।
अग्रे । एति । युवतिः । अह्रयाणा । प्र । अचिकितत् । सूर्यम् । यज्ञम् । अग्निम् ॥
eṣā́ ǀ syā́ ǀ návyam ǀ ā́yuḥ ǀ dádhānā ǀ gūḍhvī́ ǀ támaḥ ǀ jyótiṣā ǀ uṣā́ḥ ǀ abodhi ǀ
ágre ǀ eti ǀ yuvatíḥ ǀ áhrayāṇā ǀ prá ǀ acikitat ǀ sū́ryam ǀ yajñám ǀ agním ǁ
eṣā ǀ syā ǀ navyam ǀ āyuḥ ǀ dadhānā ǀ gūḍhvī ǀ tamaḥ ǀ jyotiṣā ǀ uṣāḥ ǀ abodhi ǀ
agre ǀ eti ǀ yuvatiḥ ǀ ahrayāṇā ǀ pra ǀ acikitat ǀ sūryam ǀ yajñam ǀ agnim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.080.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.27.02
- Maṇḍala · Anuvāka · Ṛk
- 07.05.055
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.