Ṛk 7.45.2
Saṃhitā
उद॑स्य बा॒हू शि॑थि॒रा बृ॒हंता॑ हिर॒ण्यया॑ दि॒वो अंताँ॑ अनष्टां ।
नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्यां ॥
उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् |
नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम् ||
údasya bāhū́ śithirā́ bṛhántā hiraṇyáyā divó ántām̐ anaṣṭām ǀ
nūnám só asya mahimā́ paniṣṭa sū́raścidasmā ánu dādapasyā́m ǁ
ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṃ anaṣṭām |
nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām ||
Padapāṭha
उत् । अ॒स्य॒ । बा॒हू इति॑ । शि॒थि॒रा । बृ॒हन्ता॑ । हि॒र॒ण्यया॑ । दि॒वः । अन्ता॑न् । अ॒न॒ष्टा॒म् ।
नू॒नम् । सः । अ॒स्य॒ । म॒हि॒मा । प॒नि॒ष्ट॒ । सूरः॑ । चि॒त् । अ॒स्मै॒ । अनु॑ । दा॒त् । अ॒प॒स्याम् ॥
उत् । अस्य । बाहू इति । शिथिरा । बृहन्ता । हिरण्यया । दिवः । अन्तान् । अनष्टाम् ।
नूनम् । सः । अस्य । महिमा । पनिष्ट । सूरः । चित् । अस्मै । अनु । दात् । अपस्याम् ॥
út ǀ asya ǀ bāhū́ íti ǀ śithirā́ ǀ bṛhántā ǀ hiraṇyáyā ǀ diváḥ ǀ ántān ǀ anaṣṭām ǀ
nūnám ǀ sáḥ ǀ asya ǀ mahimā́ ǀ paniṣṭa ǀ sū́raḥ ǀ cit ǀ asmai ǀ ánu ǀ dāt ǀ apasyā́m ǁ
ut ǀ asya ǀ bāhū iti ǀ śithirā ǀ bṛhantā ǀ hiraṇyayā ǀ divaḥ ǀ antān ǀ anaṣṭām ǀ
nūnam ǀ saḥ ǀ asya ǀ mahimā ǀ paniṣṭa ǀ sūraḥ ǀ cit ǀ asmai ǀ anu ǀ dāt ǀ apasyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.045.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.12.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.104
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.