Ṛk 7.45.4
Saṃhitā
इ॒मा गिरः॑ सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिं ।
चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईऌअते सुपाणिम् |
चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः ||
imā́ gíraḥ savitā́ram sujihvám pūrṇágabhastimīḷate supāṇím ǀ
citrám váyo bṛhádasmé dadhātu yūyám pāta svastíbhiḥ sádā naḥ ǁ
imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īḷate supāṇim |
citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ ||
Padapāṭha
इ॒माः । गिरः॑ । स॒वि॒तार॑म् । सु॒ऽजि॒ह्वम् । पू॒र्णऽग॑भस्तिम् । ई॒ळ॒ते॒ । सु॒ऽपा॒णिम् ।
चि॒त्रम् । वयः॑ । बृ॒हत् । अ॒स्मे इति॑ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
इमाः । गिरः । सवितारम् । सुऽजिह्वम् । पूर्णऽगभस्तिम् । ईळते । सुऽपाणिम् ।
चित्रम् । वयः । बृहत् । अस्मे इति । दधातु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
imā́ḥ ǀ gíraḥ ǀ savitā́ram ǀ su-jihvám ǀ pūrṇá-gabhastim ǀ īḷate ǀ su-pāṇím ǀ
citrám ǀ váyaḥ ǀ bṛhát ǀ asmé íti ǀ dadhātu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ
imāḥ ǀ giraḥ ǀ savitāram ǀ su-jihvam ǀ pūrṇa-gabhastim ǀ īḷate ǀ su-pāṇim ǀ
citram ǀ vayaḥ ǀ bṛhat ǀ asme iti ǀ dadhātu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.045.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.12.04
- Maṇḍala · Anuvāka · Ṛk
- 07.03.106
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.