Ṛk 7.64.4
Saṃhitā
यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च ।
उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथां ॥
यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद् धारयच् च |
उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम् ||
yó vām gártam mánasā tákṣadetámūrdhvā́m dhītím kṛṇávaddhāráyacca ǀ
ukṣéthām mitrāvaruṇā ghṛténa tā́ rājānā sukṣitī́starpayethām ǁ
yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca |
ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām ||
Padapāṭha
यः । वा॒म् । गर्त॑म् । मन॑सा । तक्ष॑त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव॑त् । धा॒रय॑त् । च॒ ।
उ॒क्षेथा॑म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन॑ । ता । रा॒जा॒ना॒ । सु॒ऽक्षि॒तीः । त॒र्प॒ये॒था॒म् ॥
यः । वाम् । गर्तम् । मनसा । तक्षत् । एतम् । ऊर्ध्वाम् । धीतिम् । कृणवत् । धारयत् । च ।
उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सुऽक्षितीः । तर्पयेथाम् ॥
yáḥ ǀ vām ǀ gártam ǀ mánasā ǀ tákṣat ǀ etám ǀ ūrdhvā́m ǀ dhītím ǀ kṛṇávat ǀ dhāráyat ǀ ca ǀ
ukṣéthām ǀ mitrāvaruṇā ǀ ghṛténa ǀ tā́ ǀ rājānā ǀ su-kṣitī́ḥ ǀ tarpayethām ǁ
yaḥ ǀ vām ǀ gartam ǀ manasā ǀ takṣat ǀ etam ǀ ūrdhvām ǀ dhītim ǀ kṛṇavat ǀ dhārayat ǀ ca ǀ
ukṣethām ǀ mitrāvaruṇā ǀ ghṛtena ǀ tā ǀ rājānā ǀ su-kṣitīḥ ǀ tarpayethām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.064.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.06.04
- Maṇḍala · Anuvāka · Ṛk
- 07.04.085
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.