Ṛk 7.85.1
Saṃhitā
पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिंद्रा॑य॒ वरु॑णाय॒ जुह्व॑त् ।
घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥
पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय जुह्वत् |
घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम् अभीके ||
punīṣé vāmarakṣásam manīṣā́m sómamíndrāya váruṇāya júhvat ǀ
ghṛtápratīkāmuṣásam ná devī́m tā́ no yā́mannuruṣyatāmabhī́ke ǁ
punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat |
ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke ||
Padapāṭha
पु॒नी॒षे । वा॒म् । अ॒र॒क्षस॑म् । म॒नी॒षाम् । सोम॑म् । इन्द्रा॑य । वरु॑णाय । जुह्व॑त् ।
घृ॒तऽप्र॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ । याम॑न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके॑ ॥
पुनीषे । वाम् । अरक्षसम् । मनीषाम् । सोमम् । इन्द्राय । वरुणाय । जुह्वत् ।
घृतऽप्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके ॥
punīṣé ǀ vām ǀ arakṣásam ǀ manīṣā́m ǀ sómam ǀ índrāya ǀ váruṇāya ǀ júhvat ǀ
ghṛtá-pratīkām ǀ uṣásam ǀ ná ǀ devī́m ǀ tā́ ǀ naḥ ǀ yā́man ǀ uruṣyatām ǀ abhī́ke ǁ
punīṣe ǀ vām ǀ arakṣasam ǀ manīṣām ǀ somam ǀ indrāya ǀ varuṇāya ǀ juhvat ǀ
ghṛta-pratīkām ǀ uṣasam ǀ na ǀ devīm ǀ tā ǀ naḥ ǀ yāman ǀ uruṣyatām ǀ abhīke ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.085.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.07.01
- Maṇḍala · Anuvāka · Ṛk
- 07.05.088
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.