Ṛk 8.55.3
Saṃhitā
श॒तं वे॒णूंछ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।
श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतं ॥
शतं वेणूञ् छतं शुनः शतं चर्माणि म्लातानि |
शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ||
śatám veṇū́ñchatám śúnaḥ śatám cármāṇi mlātā́ni ǀ
śatám me balbajastukā́ áruṣīṇām cátuḥśatam ǁ
śataṃ veṇūñ chataṃ śunaḥ śataṃ carmāṇi mlātāni |
śatam me balbajastukā aruṣīṇāṃ catuḥśatam ||
Padapāṭha
श॒तम् । वे॒णून् । श॒तम् । शुनः॑ । श॒तम् । चर्मा॑णि । म्ला॒तानि॑ ।
श॒तम् । मे॒ । ब॒ल्ब॒ज॒ऽस्तु॒काः । अरु॑षीणाम् । चतुः॑ऽशतम् ॥
शतम् । वेणून् । शतम् । शुनः । शतम् । चर्माणि । म्लातानि ।
शतम् । मे । बल्बजऽस्तुकाः । अरुषीणाम् । चतुःऽशतम् ॥
śatám ǀ veṇū́n ǀ śatám ǀ śúnaḥ ǀ śatám ǀ cármāṇi ǀ mlātā́ni ǀ
śatám ǀ me ǀ balbaja-stukā́ḥ ǀ áruṣīṇām ǀ cátuḥ-śatam ǁ
śatam ǀ veṇūn ǀ śatam ǀ śunaḥ ǀ śatam ǀ carmāṇi ǀ mlātāni ǀ
śatam ǀ me ǀ balbaja-stukāḥ ǀ aruṣīṇām ǀ catuḥ-śatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.055.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.26.03
- Maṇḍala · Anuvāka · Ṛk
- 08.06.230
- Devatā देवता
- Praskaṇva’s Dānastuti
- Ṛṣi ऋषि
- Kṛśa Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.