Ṛk 8.55.5
Saṃhitā
आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।
श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥
आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः |
श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ||
ā́dítsāptásya carkirannā́nūnasya máhi śrávaḥ ǀ
śyā́vīratidhvasánpatháścákṣuṣā caná saṃnáśe ǁ
ād it sāptasya carkirann ānūnasya mahi śravaḥ |
śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe ||
Padapāṭha
आत् । इत् । सा॒प्तस्य॑ । च॒र्कि॒र॒न् । न । अनू॑नस्य । महि॑ । श्रवः॑ ।
श्यावीः॑ । अ॒ति॒ऽध्व॒सन् । प॒थः । चक्षु॑षा । च॒न । स॒म्ऽनशे॑ ॥
आत् । इत् । साप्तस्य । चर्किरन् । न । अनूनस्य । महि । श्रवः ।
श्यावीः । अतिऽध्वसन् । पथः । चक्षुषा । चन । सम्ऽनशे ॥
ā́t ǀ ít ǀ sāptásya ǀ carkiran ǀ ná ǀ ánūnasya ǀ máhi ǀ śrávaḥ ǀ
śyā́vīḥ ǀ ati-dhvasán ǀ patháḥ ǀ cákṣuṣā ǀ caná ǀ sam-náśe ǁ
āt ǀ it ǀ sāptasya ǀ carkiran ǀ na ǀ anūnasya ǀ mahi ǀ śravaḥ ǀ
śyāvīḥ ǀ ati-dhvasan ǀ pathaḥ ǀ cakṣuṣā ǀ cana ǀ sam-naśe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.055.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.26.05
- Maṇḍala · Anuvāka · Ṛk
- 08.06.232
- Devatā देवता
- Praskaṇva’s Dānastuti
- Ṛṣi ऋषि
- Kṛśa Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.