Ṛk 7.28.4
Saṃhitā
ए॒भिर्न॑ इं॒द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पवं॑ते ।
प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ॥
एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते |
प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात् ||
ebhírna indrā́habhirdaśasya durmitrā́so hí kṣitáyaḥ pávante ǀ
práti yáccáṣṭe ánṛtamanenā́ áva dvitā́ váruṇo māyī́ naḥ sāt ǁ
ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante |
prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt ||
Padapāṭha
ए॒भिः । नः॒ । इ॒न्द्र॒ । अह॑ऽभिः । द॒श॒स्य॒ । दुः॒ऽमि॒त्रासः॑ । हि । क्षि॒तयः॑ । पव॑न्ते ।
प्रति॑ । यत् । चष्टे॑ । अनृ॑तम् । अ॒ने॒नाः । अव॑ । द्वि॒ता । वरु॑णः । मा॒यी । नः॒ । सा॒त् ॥
एभिः । नः । इन्द्र । अहऽभिः । दशस्य । दुःऽमित्रासः । हि । क्षितयः । पवन्ते ।
प्रति । यत् । चष्टे । अनृतम् । अनेनाः । अव । द्विता । वरुणः । मायी । नः । सात् ॥
ebhíḥ ǀ naḥ ǀ indra ǀ áha-bhiḥ ǀ daśasya ǀ duḥ-mitrā́saḥ ǀ hí ǀ kṣitáyaḥ ǀ pávante ǀ
práti ǀ yát ǀ cáṣṭe ǀ ánṛtam ǀ anenā́ḥ ǀ áva ǀ dvitā́ ǀ váruṇaḥ ǀ māyī́ ǀ naḥ ǀ sāt ǁ
ebhiḥ ǀ naḥ ǀ indra ǀ aha-bhiḥ ǀ daśasya ǀ duḥ-mitrāsaḥ ǀ hi ǀ kṣitayaḥ ǀ pavante ǀ
prati ǀ yat ǀ caṣṭe ǀ anṛtam ǀ anenāḥ ǀ ava ǀ dvitā ǀ varuṇaḥ ǀ māyī ǀ naḥ ǀ sāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.028.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.12.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.097
- Devatā देवता
- 1-3, 5: Indra; 4: Indra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.