Ṛgveda · Maṇḍala 7 · Sūkta 28

Ṛk 7.28.5

Indra · Indra, Varuṇa · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः |
यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ||

vocémédíndram maghávānamenam mahó rāyó rā́dhaso yáddádannaḥ ǀ
yó árcato bráhmakṛtimáviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ǁ

vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।
यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

vocéma ǀ ít ǀ índram ǀ maghá-vānam ǀ enam ǀ maháḥ ǀ rāyáḥ ǀ rā́dhasaḥ ǀ yát ǀ dádat ǀ naḥ ǀ
yáḥ ǀ árcataḥ ǀ bráhma-kṛtim ǀ áviṣṭhaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

vocema ǀ it ǀ indram ǀ magha-vānam ǀ enam ǀ mahaḥ ǀ rāyaḥ ǀ rādhasaḥ ǀ yat ǀ dadat ǀ naḥ ǀ
yaḥ ǀ arcataḥ ǀ brahma-kṛtim ǀ aviṣṭhaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.028.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.12.05
Maṇḍala · Anuvāka · Ṛk
07.02.098
Devatā देवता
1-3, 5: Indra; 4: Indra, Varuṇa
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.28.5

Interpretations

Sāyaṇa

अयं सोमइन्द्रेति पंचर्चं द्वादशंसूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं । अयंसोमइत्यनुक्रान्तं । व्यूह्ळेदशरात्रे नवमेहनि अयंसोमइन्द्रेति प्रउ- गशस्त्रे ऎन्द्रस्तृचः सूत्रितंच-अयंसोमइन्द्रतुभ्यंसुन्वआतु प्रब्रह्माणइति षोडशिशस्त्रे ब्रह्मन्वीरइत्येषा त्रिष्टुप् सूत्रितंच-ब्रह्मन्वीरब्रह्मकृति- जुषाणइतित्रिष्टुबिति ।