Ṛk 7.28.1
Saṃhitā
ब्रह्मा॑ ण इं॒द्रोप॑ याहि वि॒द्वान॒र्वांच॑स्ते॒ हर॑यः संतु यु॒क्ताः ।
विश्वे॑ चि॒द्धि त्वा॑ वि॒हवं॑त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥
ब्रह्मा ण इन्द्रोप याहि विद्वान् अर्वाञ्चस् ते हरयः सन्तु युक्ताः |
विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व ||
bráhmā ṇa indrópa yāhi vidvā́narvā́ñcaste hárayaḥ santu yuktā́ḥ ǀ
víśve ciddhí tvā vihávanta mártā asmā́kamícchṛṇuhi viśvaminva ǁ
brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ |
viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva ||
Padapāṭha
ब्रह्मा॑ । नः॒ । इ॒न्द्र॒ । उप॑ । या॒हि॒ । वि॒द्वान् । अ॒र्वाञ्चः॑ । ते॒ । हर॑यः । स॒न्तु॒ । यु॒क्ताः ।
विश्वे॑ । चि॒त् । हि । त्वा॒ । वि॒ऽहव॑न्त । मर्ताः॑ । अ॒स्माक॑म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्ऽइ॒न्व॒ ॥
ब्रह्मा । नः । इन्द्र । उप । याहि । विद्वान् । अर्वाञ्चः । ते । हरयः । सन्तु । युक्ताः ।
विश्वे । चित् । हि । त्वा । विऽहवन्त । मर्ताः । अस्माकम् । इत् । शृणुहि । विश्वम्ऽइन्व ॥
bráhmā ǀ naḥ ǀ indra ǀ úpa ǀ yāhi ǀ vidvā́n ǀ arvā́ñcaḥ ǀ te ǀ hárayaḥ ǀ santu ǀ yuktā́ḥ ǀ
víśve ǀ cit ǀ hí ǀ tvā ǀ vi-hávanta ǀ mártāḥ ǀ asmā́kam ǀ ít ǀ śṛṇuhi ǀ viśvam-inva ǁ
brahmā ǀ naḥ ǀ indra ǀ upa ǀ yāhi ǀ vidvān ǀ arvāñcaḥ ǀ te ǀ harayaḥ ǀ santu ǀ yuktāḥ ǀ
viśve ǀ cit ǀ hi ǀ tvā ǀ vi-havanta ǀ martāḥ ǀ asmākam ǀ it ǀ śṛṇuhi ǀ viśvam-inva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.028.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.12.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.094
- Devatā देवता
- 1-3, 5: Indra; 4: Indra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.