Ṛk 7.29.4
Saṃhitā
उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒र्ऋषी॑णां ।
अधा॒हं त्वा॑ मघवंजोहवीमि॒ त्वं न॑ इंद्रासि॒ प्रम॑तिः पि॒तेव॑ ॥
उतो घा ते पुरुष्या इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् |
अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ||
utó ghā té puruṣyā́ ídāsanyéṣām pū́rveṣāmáśṛṇorṛ́ṣīṇām ǀ
ádhāhám tvā maghavañjohavīmi tvám na indrāsi prámatiḥ pitéva ǁ
uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām |
adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva ||
Padapāṭha
उ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अशृ॑णोः । ऋषी॑णाम् ।
अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥
उतो इति । घ । ते । पुरुष्याः । इत् । आसन् । येषाम् । पूर्वेषाम् । अशृणोः । ऋषीणाम् ।
अध । अहम् । त्वा । मघऽवन् । जोहवीमि । त्वम् । नः । इन्द्र । असि । प्रऽमतिः । पिताऽइव ॥
utó íti ǀ gha ǀ té ǀ puruṣyā́ḥ ǀ ít ǀ āsan ǀ yéṣām ǀ pū́rveṣām ǀ áśṛṇoḥ ǀ ṛ́ṣīṇām ǀ
ádha ǀ ahám ǀ tvā ǀ magha-van ǀ johavīmi ǀ tvám ǀ naḥ ǀ indra ǀ asi ǀ prá-matiḥ ǀ pitā́-iva ǁ
uto iti ǀ gha ǀ te ǀ puruṣyāḥ ǀ it ǀ āsan ǀ yeṣām ǀ pūrveṣām ǀ aśṛṇoḥ ǀ ṛṣīṇām ǀ
adha ǀ aham ǀ tvā ǀ magha-van ǀ johavīmi ǀ tvam ǀ naḥ ǀ indra ǀ asi ǀ pra-matiḥ ǀ pitā-iva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.029.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.13.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.102
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.