Ṛgveda · Maṇḍala 7 · Sūkta 29

Ṛk 7.29.5

Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः |
यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ||

vocémédíndram maghávānamenam mahó rāyó rā́dhaso yáddádannaḥ ǀ
yó árcato bráhmakṛtimáviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ǁ

vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।
यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

vocéma ǀ ít ǀ índram ǀ maghá-vānam ǀ enam ǀ maháḥ ǀ rāyáḥ ǀ rā́dhasaḥ ǀ yát ǀ dádat ǀ naḥ ǀ
yáḥ ǀ árcataḥ ǀ bráhma-kṛtim ǀ áviṣṭhaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

vocema ǀ it ǀ indram ǀ magha-vānam ǀ enam ǀ mahaḥ ǀ rāyaḥ ǀ rādhasaḥ ǀ yat ǀ dadat ǀ naḥ ǀ
yaḥ ǀ arcataḥ ǀ brahma-kṛtim ǀ aviṣṭhaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.029.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.13.05
Maṇḍala · Anuvāka · Ṛk
07.02.103
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.29.5

Interpretations

Sāyaṇa

आनोदेवेति पंचर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं । आनोदेवेत्यनुक्रान्तं । प्रथमेछन्दोमे प्रउगशस्त्रे आनइत्ययमैन्द्रस्तृचः सूत्र्यतेहि-आनोदेवशवसायाहिशुष्मिन् प्रवोयज्ञेषुदेवयन्तोअर्चन्निति ।