Ṛk 7.78.3
Saṃhitā
ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छं॑तीरु॒षसो॑ विभा॒तीः ।
अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टं ॥
एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः |
अजीजनन् सूर्यं यज्ञम् अग्निम् अपाचीनं तमो अगाद् अजुष्टम् ||
etā́ u tyā́ḥ prátyadṛśranpurástājjyótiryácchantīruṣáso vibhātī́ḥ ǀ
ájījanantsū́ryam yajñámagnímapācī́nam támo agādájuṣṭam ǁ
etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ |
ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam ||
Padapāṭha
ए॒ताः । ऊं॒ इति॑ । त्याः । प्रति॑ । अ॒दृ॒श्र॒न् । पु॒रस्ता॑त् । ज्योतिः॑ । यच्छ॑न्तीः । उ॒षसः॑ । वि॒ऽभा॒तीः ।
अजी॑जनन् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन॑म् । तमः॑ । अ॒गा॒त् । अजु॑ष्टम् ॥
एताः । ऊं इति । त्याः । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छन्तीः । उषसः । विऽभातीः ।
अजीजनन् । सूर्यम् । यज्ञम् । अग्निम् । अपाचीनम् । तमः । अगात् । अजुष्टम् ॥
etā́ḥ ǀ ūṃ íti ǀ tyā́ḥ ǀ práti ǀ adṛśran ǀ purástāt ǀ jyótiḥ ǀ yácchantīḥ ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ
ájījanan ǀ sū́ryam ǀ yajñám ǀ agním ǀ apācī́nam ǀ támaḥ ǀ agāt ǀ ájuṣṭam ǁ
etāḥ ǀ ūṃ iti ǀ tyāḥ ǀ prati ǀ adṛśran ǀ purastāt ǀ jyotiḥ ǀ yacchantīḥ ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ
ajījanan ǀ sūryam ǀ yajñam ǀ agnim ǀ apācīnam ǀ tamaḥ ǀ agāt ǀ ajuṣṭam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.078.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.25.03
- Maṇḍala · Anuvāka · Ṛk
- 07.05.046
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.