Ṛgveda · Maṇḍala 7 · Sūkta 78

Ṛk 7.78.5

Uṣas · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

प्रति॑ त्वा॒द्य सु॒मन॑सो बुधंता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ ।
ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च |
तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः ||

práti tvādyá sumánaso budhantāsmā́kāso maghávāno vayám ca ǀ
tilvilāyádhvamuṣaso vibhātī́ryūyám pāta svastíbhiḥ sádā naḥ ǁ

prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca |
tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

प्रति॑ । त्वा॒ । अ॒द्य । सु॒ऽमन॑सः । बु॒ध॒न्त॒ । अ॒स्माका॑सः । म॒घऽवा॑नः । व॒यम् । च॒ ।
ति॒ल्वि॒ला॒यध्व॑म् । उ॒ष॒सः॒ । वि॒ऽभा॒तीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

प्रति । त्वा । अद्य । सुऽमनसः । बुधन्त । अस्माकासः । मघऽवानः । वयम् । च ।
तिल्विलायध्वम् । उषसः । विऽभातीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

práti ǀ tvā ǀ adyá ǀ su-mánasaḥ ǀ budhanta ǀ asmā́kāsaḥ ǀ maghá-vānaḥ ǀ vayám ǀ ca ǀ
tilvilāyádhvam ǀ uṣasaḥ ǀ vi-bhātī́ḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

prati ǀ tvā ǀ adya ǀ su-manasaḥ ǀ budhanta ǀ asmākāsaḥ ǀ magha-vānaḥ ǀ vayam ǀ ca ǀ
tilvilāyadhvam ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.078.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.5.25.05
Maṇḍala · Anuvāka · Ṛk
07.05.048
Devatā देवता
Uṣas
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.78.5

Interpretations

Sāyaṇa

हे उषसस्त्वात्वां अद्यास्मिन्काले सुमनसः शोभनस्तुतिकामघवानो हविर्लक्षणान्नवन्तोस्माकासोस्माका अस्मदीयाः पुरुषा ऋत्विजः यद्वा मघवानइत्येतत् वयमित्येतस्य विशेषणं हविष्मन्तोवयं प्रतिबुधन्त प्रत्यबोधयन् स्तुतिभिः । हे उषसोयूयंच विभातीः व्युच्छंत्यः सत्यस्तिल्विलायध्वं जगत् स्रिग्धभूमिकं कुरुत तिलस्रेहने इत्यस्मात्तिलुः तिलुरिलाभूमिः यस्य तत्तिल्विलं तत्कुरुत । शिष्टं स्पष्टम् ॥ ५ ॥ व्युषाआवइति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षमुषस्यं त्रैष्टुभं व्युषाइत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।