Ṛk 8.42.6
Saṃhitā
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥
एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः |
नासत्या सोमपीतये नभन्ताम् अन्यके समे ||
evā́ vāmahva ūtáye yáthā́huvanta médhirāḥ ǀ
nā́satyā sómapītaye nábhantāmanyaké same ǁ
evā vām ahva ūtaye yathāhuvanta medhirāḥ |
nāsatyā somapītaye nabhantām anyake same ||
Padapāṭha
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
evá ǀ vām ǀ ahve ǀ ūtáye ǀ yáthā ǀ áhuvanta ǀ médhirāḥ ǀ
nā́satyā ǀ sóma-pītaye ǀ nábhantām ǀ anyaké ǀ same ǁ
eva ǀ vām ǀ ahve ǀ ūtaye ǀ yathā ǀ ahuvanta ǀ medhirāḥ ǀ
nāsatyā ǀ soma-pītaye ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.042.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.28.06
- Maṇḍala · Anuvāka · Ṛk
- 08.05.171
- Devatā देवता
- 1-3: Varuṇa; 4-6: Aśvins
- Ṛṣi ऋषि
- Arcanānas Ātreya Or Nābhāka Kāṇva Or Virūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.