Ṛk 8.56.5
Saṃhitā
अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।
अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥
अचेत्य् अग्निश् चिकितुर् हव्यवाट् स सुमद्रथः |
अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत ||
ácetyagníścikitúrhavyavā́ṭ sá sumádrathaḥ ǀ
agníḥ śukréṇa śocíṣā bṛhátsū́ro arocata diví sū́ryo arocata ǁ
acety agniś cikitur havyavāṭ sa sumadrathaḥ |
agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata ||
Padapāṭha
अचे॑ति । अ॒ग्निः । चि॒कि॒तुः । ह॒व्य॒ऽवाट् । सः । सु॒मत्ऽर॑थः ।
अ॒ग्निः । शु॒क्रेण॑ । शो॒चिषा॑ । बृ॒हत् । सूरः॑ । अ॒रो॒च॒त॒ । दि॒वि । सूर्यः॑ । अ॒रो॒च॒त॒ ॥
अचेति । अग्निः । चिकितुः । हव्यऽवाट् । सः । सुमत्ऽरथः ।
अग्निः । शुक्रेण । शोचिषा । बृहत् । सूरः । अरोचत । दिवि । सूर्यः । अरोचत ॥
áceti ǀ agníḥ ǀ cikitúḥ ǀ havya-vā́ṭ ǀ sáḥ ǀ sumát-rathaḥ ǀ
agníḥ ǀ śukréṇa ǀ śocíṣā ǀ bṛhát ǀ sū́raḥ ǀ arocata ǀ diví ǀ sū́ryaḥ ǀ arocata ǁ
aceti ǀ agniḥ ǀ cikituḥ ǀ havya-vāṭ ǀ saḥ ǀ sumat-rathaḥ ǀ
agniḥ ǀ śukreṇa ǀ śociṣā ǀ bṛhat ǀ sūraḥ ǀ arocata ǀ divi ǀ sūryaḥ ǀ arocata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.056.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.27.05
- Maṇḍala · Anuvāka · Ṛk
- 08.06.237
- Devatā देवता
- 1-4: Praskaṇva’s Dānastuti; 5: Agni, Sūrya
- Ṛṣi ऋषि
- Pṛṣadhra Kāṇva
- Chandas छन्दस्
- Gāyatrī, Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.