Ṛk 8.86.5
Saṃhitā
ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृंग॑मुर्वि॒या वि प॑प्रथे ।
ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥
ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे |
ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ||
ṛténa deváḥ savitā́ śamāyata ṛtásya śṛ́ṅgamurviyā́ ví paprathe ǀ
ṛtám sāsāha máhi citpṛtanyató mā́ no ví yauṣṭam sakhyā́ mumócatam ǁ
ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe |
ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam ||
Padapāṭha
ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ ।
ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥
ऋतेन । देवः । सविता । शम्ऽआयते । ऋतस्य । शृङ्गम् । उर्विया । वि । पप्रथे ।
ऋतम् । ससाह । महि । चित् । पृतन्यतः । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥
ṛténa ǀ deváḥ ǀ savitā́ ǀ śam-āyate ǀ ṛtásya ǀ śṛ́ṅgam ǀ urviyā́ ǀ ví ǀ paprathe ǀ
ṛtám ǀ sasāha ǀ máhi ǀ cit ǀ pṛtanyatáḥ ǀ mā́ ǀ naḥ ǀ ví ǀ yauṣṭam ǀ sakhyā́ ǀ mumócatam ǁ
ṛtena ǀ devaḥ ǀ savitā ǀ śam-āyate ǀ ṛtasya ǀ śṛṅgam ǀ urviyā ǀ vi ǀ paprathe ǀ
ṛtam ǀ sasāha ǀ mahi ǀ cit ǀ pṛtanyataḥ ǀ mā ǀ naḥ ǀ vi ǀ yauṣṭam ǀ sakhyā ǀ mumocatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.086.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.09.05
- Maṇḍala · Anuvāka · Ṛk
- 08.09.050
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa Or Viśvaka Kārṣṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.