Ṛk 7.39.2
Saṃhitā
प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।
वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥
प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते |
विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ||
prá vāvṛje suprayā́ barhíreṣāmā́ viśpátīva bī́riṭa iyāte ǀ
viśā́maktóruṣásaḥ pūrváhūtau vāyúḥ pūṣā́ svastáye niyútvān ǁ
pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte |
viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ||
Padapāṭha
प्र । व॒वृ॒जे॒ । सु॒ऽप्र॒याः । ब॒र्हिः । ए॒षा॒म् । आ । वि॒श्पती॑ इ॒वेति॑ वि॒श्पती॑ऽइव । बीरि॑टे । इ॒या॒ते॒ इति॑ ।
वि॒शाम् । अ॒क्तोः । उ॒षसः॑ । पू॒र्वऽहू॑तौ । वा॒युः । पू॒षा । स्व॒स्तये॑ । नि॒युत्वा॑न् ॥
प्र । ववृजे । सुऽप्रयाः । बर्हिः । एषाम् । आ । विश्पती इवेति विश्पतीऽइव । बीरिटे । इयाते इति ।
विशाम् । अक्तोः । उषसः । पूर्वऽहूतौ । वायुः । पूषा । स्वस्तये । नियुत्वान् ॥
prá ǀ vavṛje ǀ su-prayā́ḥ ǀ barhíḥ ǀ eṣām ǀ ā́ ǀ viśpátī ivéti viśpátī-iva ǀ bī́riṭe ǀ iyāte íti ǀ
viśā́m ǀ aktóḥ ǀ uṣásaḥ ǀ pūrvá-hūtau ǀ vāyúḥ ǀ pūṣā́ ǀ svastáye ǀ niyútvān ǁ
pra ǀ vavṛje ǀ su-prayāḥ ǀ barhiḥ ǀ eṣām ǀ ā ǀ viśpatī iveti viśpatī-iva ǀ bīriṭe ǀ iyāte iti ǀ
viśām ǀ aktoḥ ǀ uṣasaḥ ǀ pūrva-hūtau ǀ vāyuḥ ǀ pūṣā ǀ svastaye ǀ niyutvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.039.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.06.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.067
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.