Ṛk 7.39.1
Saṃhitā
ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति ।
भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पंथा॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥
ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति |
भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति ||
ūrdhvó agníḥ sumatím vásvo aśretpratīcī́ jūrṇírdevátātimeti ǀ
bhejā́te ádrī rathyéva pánthāmṛtám hótā na iṣitó yajāti ǁ
ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti |
bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti ||
Padapāṭha
ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽम॒तिम् । वस्वः॑ । अ॒श्रे॒त् । प्र॒ती॒ची । जू॒र्णिः । दे॒वऽता॑तिम् । ए॒ति॒ ।
भे॒जाते॒ इति॑ । अद्री॒ इति॑ । र॒थ्या॑ऽइव । पन्था॑म् । ऋ॒तम् । होता॑ । नः॒ । इ॒षि॒तः । य॒जा॒ति॒ ॥
ऊर्ध्वः । अग्निः । सुऽमतिम् । वस्वः । अश्रेत् । प्रतीची । जूर्णिः । देवऽतातिम् । एति ।
भेजाते इति । अद्री इति । रथ्याऽइव । पन्थाम् । ऋतम् । होता । नः । इषितः । यजाति ॥
ūrdhváḥ ǀ agníḥ ǀ su-matím ǀ vásvaḥ ǀ aśret ǀ pratīcī́ ǀ jūrṇíḥ ǀ devá-tātim ǀ eti ǀ
bhejā́te íti ǀ ádrī íti ǀ rathyā́-iva ǀ pánthām ǀ ṛtám ǀ hótā ǀ naḥ ǀ iṣitáḥ ǀ yajāti ǁ
ūrdhvaḥ ǀ agniḥ ǀ su-matim ǀ vasvaḥ ǀ aśret ǀ pratīcī ǀ jūrṇiḥ ǀ deva-tātim ǀ eti ǀ
bhejāte iti ǀ adrī iti ǀ rathyā-iva ǀ panthām ǀ ṛtam ǀ hotā ǀ naḥ ǀ iṣitaḥ ǀ yajāti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.039.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.06.01
- Maṇḍala · Anuvāka · Ṛk
- 07.03.066
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.