Ṛk 7.41.2
Saṃhitā
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता |
आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह ||
prātarjítam bhágamugrám huvema vayám putrámáditeryó vidhartā́ ǀ
ādhráścidyám mányamānasturáścidrā́jā cidyám bhágam bhakṣī́tyā́ha ǁ
prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā |
ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha ||
Padapāṭha
प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता ।
आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥
प्रातःऽजितम् । भगम् । उग्रम् । हुवेम । वयम् । पुत्रम् । अदितेः । यः । विऽधर्ता ।
आध्रः । चित् । यम् । मन्यमानः । तुरः । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥
prātaḥ-jítam ǀ bhágam ǀ ugrám ǀ huvema ǀ vayám ǀ putrám ǀ áditeḥ ǀ yáḥ ǀ vi-dhartā́ ǀ
ādhráḥ ǀ cit ǀ yám ǀ mányamānaḥ ǀ turáḥ ǀ cit ǀ rā́jā ǀ cit ǀ yám ǀ bhágam ǀ bhakṣi ǀ íti ǀ ā́ha ǁ
prātaḥ-jitam ǀ bhagam ǀ ugram ǀ huvema ǀ vayam ǀ putram ǀ aditeḥ ǀ yaḥ ǀ vi-dhartā ǀ
ādhraḥ ǀ cit ǀ yam ǀ manyamānaḥ ǀ turaḥ ǀ cit ǀ rājā ǀ cit ǀ yam ǀ bhagam ǀ bhakṣi ǀ iti ǀ āha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.041.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.08.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.081
- Devatā देवता
- 1: Liṅgoktadevatāḥ; 2-6: Bhaga; 7: Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.