Ṛk 7.41.4
Saṃhitā
उ॒तेदानीं॒ भग॑वंतः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्नां॑ ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् |
उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ||
utédā́nīm bhágavantaḥ syāmotá prapitvá utá mádhye áhnām ǀ
utóditā maghavantsū́ryasya vayám devā́nām sumatáu syāma ǁ
utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām |
utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma ||
Padapāṭha
उ॒त । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् ।
उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥
उत । इदानीम् । भगऽवन्तः । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् ।
उत । उत्ऽइता । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥
utá ǀ idā́nīm ǀ bhága-vantaḥ ǀ syāma ǀ utá ǀ pra-pitvé ǀ utá ǀ mádhye ǀ áhnām ǀ
utá ǀ út-itā ǀ magha-van ǀ sū́ryasya ǀ vayám ǀ devā́nām ǀ su-matáu ǀ syāma ǁ
uta ǀ idānīm ǀ bhaga-vantaḥ ǀ syāma ǀ uta ǀ pra-pitve ǀ uta ǀ madhye ǀ ahnām ǀ
uta ǀ ut-itā ǀ magha-van ǀ sūryasya ǀ vayam ǀ devānām ǀ su-matau ǀ syāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.041.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.08.04
- Maṇḍala · Anuvāka · Ṛk
- 07.03.083
- Devatā देवता
- 1: Liṅgoktadevatāḥ; 2-6: Bhaga; 7: Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.