Ṛk 7.76.3
Saṃhitā
तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य ।
यतः॒ परि॑ जा॒र इ॑वा॒चरं॒त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥
तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य |
यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव ||
tā́nī́dáhāni bahulā́nyāsanyā́ prācī́namúditā sū́ryasya ǀ
yátaḥ pári jārá ivācárantyúṣo dadṛkṣé ná púnaryatī́va ǁ
tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya |
yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva ||
Padapāṭha
तानि॑ । इत् । अहा॑नि । ब॒हु॒लानि॑ । आ॒स॒न् । या । प्रा॒चीन॑म् । उत्ऽइ॑ता । सूर्य॑स्य ।
यतः॑ । परि॑ । जा॒रःऽइ॑व । आ॒ऽचर॑न्ती । उषः॑ । द॒दृ॒क्षे । न । पुनः॑ । य॒तीऽइ॑व ॥
तानि । इत् । अहानि । बहुलानि । आसन् । या । प्राचीनम् । उत्ऽइता । सूर्यस्य ।
यतः । परि । जारःऽइव । आऽचरन्ती । उषः । ददृक्षे । न । पुनः । यतीऽइव ॥
tā́ni ǀ ít ǀ áhāni ǀ bahulā́ni ǀ āsan ǀ yā́ ǀ prācī́nam ǀ út-itā ǀ sū́ryasya ǀ
yátaḥ ǀ pári ǀ jāráḥ-iva ǀ ā-cárantī ǀ úṣaḥ ǀ dadṛkṣé ǀ ná ǀ púnaḥ ǀ yatī́-iva ǁ
tāni ǀ it ǀ ahāni ǀ bahulāni ǀ āsan ǀ yā ǀ prācīnam ǀ ut-itā ǀ sūryasya ǀ
yataḥ ǀ pari ǀ jāraḥ-iva ǀ ā-carantī ǀ uṣaḥ ǀ dadṛkṣe ǀ na ǀ punaḥ ǀ yatī-iva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.076.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.23.03
- Maṇḍala · Anuvāka · Ṛk
- 07.05.033
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.