Ṛk 7.76.5
Saṃhitā
स॒मा॒न ऊ॒र्वे अधि॒ संग॑तासः॒ सं जा॑नते॒ न य॑तंते मि॒थस्ते ।
ते दे॒वानां॒ न मि॑नंति व्र॒तान्यम॑र्धंतो॒ वसु॑भि॒र्याद॑मानाः ॥
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस् ते |
ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः ||
samāná ūrvé ádhi sáṃgatāsaḥ sám jānate ná yatante mithásté ǀ
té devā́nām ná minanti vratā́nyámardhanto vásubhiryā́damānāḥ ǁ
samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te |
te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ ||
Padapāṭha
स॒मा॒ने । ऊ॒र्वे । अधि॑ । सम्ऽग॑तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते ।
ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥
समाने । ऊर्वे । अधि । सम्ऽगतासः । सम् । जानते । न । यतन्ते । मिथः । ते ।
ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसुऽभिः । यादमानाः ॥
samāné ǀ ūrvé ǀ ádhi ǀ sám-gatāsaḥ ǀ sám ǀ jānate ǀ ná ǀ yatante ǀ mitháḥ ǀ té ǀ
té ǀ devā́nām ǀ ná ǀ minanti ǀ vratā́ni ǀ ámardhantaḥ ǀ vásu-bhiḥ ǀ yā́damānāḥ ǁ
samāne ǀ ūrve ǀ adhi ǀ sam-gatāsaḥ ǀ sam ǀ jānate ǀ na ǀ yatante ǀ mithaḥ ǀ te ǀ
te ǀ devānām ǀ na ǀ minanti ǀ vratāni ǀ amardhantaḥ ǀ vasu-bhiḥ ǀ yādamānāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.076.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.23.05
- Maṇḍala · Anuvāka · Ṛk
- 07.05.035
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.