Ṛgveda · Maṇḍala 7 · Sūkta 95

Ṛk 7.95.6

Sarasvatī · Sarasvat · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा॑वृ॒तस्य॑ सुभगे॒ व्या॑वः ।
वर्ध॑ शुभ्रे स्तुव॒ते रा॑सि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः |
वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः ||

ayámu te sarasvati vásiṣṭho dvā́rāvṛtásya subhage vyā́vaḥ ǀ
várdha śubhre stuvaté rāsi vā́jānyūyám pāta svastíbhiḥ sádā naḥ ǁ

ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ |
vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

अ॒यम् । ऊं॒ इति॑ । ते॒ । स॒र॒स्व॒ति॒ । वसि॑ष्ठः । द्वारौ॑ । ऋ॒तस्य॑ । सु॒ऽभ॒गे॒ । वि । आ॒व॒रित्या॑वः ।
वर्ध॑ । शु॒भ्रे॒ । स्तु॒व॒ते । रा॒सि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

अयम् । ऊं इति । ते । सरस्वति । वसिष्ठः । द्वारौ । ऋतस्य । सुऽभगे । वि । आवरित्यावः ।
वर्ध । शुभ्रे । स्तुवते । रासि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

ayám ǀ ūṃ íti ǀ te ǀ sarasvati ǀ vásiṣṭhaḥ ǀ dvā́rau ǀ ṛtásya ǀ su-bhage ǀ ví ǀ āvarítyāvaḥ ǀ
várdha ǀ śubhre ǀ stuvaté ǀ rāsi ǀ vā́jān ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

ayam ǀ ūṃ iti ǀ te ǀ sarasvati ǀ vasiṣṭhaḥ ǀ dvārau ǀ ṛtasya ǀ su-bhage ǀ vi ǀ āvarityāvaḥ ǀ
vardha ǀ śubhre ǀ stuvate ǀ rāsi ǀ vājān ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.095.06
Aṣṭaka · Adhyāya · Varga · Ṛk
5.6.19.06
Maṇḍala · Anuvāka · Ṛk
07.06.045
Devatā देवता
1, 2, 4-6: Sarasvatī; 3: Sarasvat
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.95.6

Interpretations

Sāyaṇa

बृहदुगायिषइति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं आद्याबृहती द्वितीया सतोबृहती तृतीया प्रस्तारपंक्तिः शिष्टास्तिस्रोगायत्र्यः आद्यस्तृचः सरस्वतीदेवताकः अन्त्यश्च सरस्वद्देवताकः तथा चानुक्रान्तम्-बृहदुप्रगाथः प्रस्तारपंक्तिः परास्तिस्रोगायत्र्यः सरस्वतइति । पञ्चमेहनिप्रउगशस्त्रे आद्यः प्रगाथः सारस्वतस्तृचः सूत्रितञ्च-बृहदुगायिषेवचइति बार्हतं प्रउगं प्रगाथानेकइति ।