Ṛgveda · Maṇḍala 7 · Sūkta 100
Ṛk 7.100.3
Saṃhitā
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यांत्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥
त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा |
प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम ||
trírdeváḥ pṛthivī́meṣá etā́m ví cakrame śatárcasam mahitvā́ ǀ
prá víṣṇurastu tavásastávīyāntveṣám hyásya sthávirasya nā́ma ǁ
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
Padapāṭha
त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा ।
प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥
त्रिः । देवः । पृथिवीम् । एषः । एताम् । वि । चक्रमे । शतऽअर्चसम् । महिऽत्वा ।
प्र । विष्णुः । अस्तु । तवसः । तवीयान् । त्वेषम् । हि । अस्य । स्थविरस्य । नाम ॥
tríḥ ǀ deváḥ ǀ pṛthivī́m ǀ eṣáḥ ǀ etā́m ǀ ví ǀ cakrame ǀ śatá-arcasam ǀ mahi-tvā́ ǀ
prá ǀ víṣṇuḥ ǀ astu ǀ tavásaḥ ǀ távīyān ǀ tveṣám ǀ hí ǀ asya ǀ sthávirasya ǀ nā́ma ǁ
triḥ ǀ devaḥ ǀ pṛthivīm ǀ eṣaḥ ǀ etām ǀ vi ǀ cakrame ǀ śata-arcasam ǀ mahi-tvā ǀ
pra ǀ viṣṇuḥ ǀ astu ǀ tavasaḥ ǀ tavīyān ǀ tveṣam ǀ hi ǀ asya ǀ sthavirasya ǀ nāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.100.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.25.03
- Maṇḍala · Anuvāka · Ṛk
- 07.06.078
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.