Ṛgveda · Maṇḍala 7 · Sūkta 100
Ṛk 7.100.6
Saṃhitā
किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि ।
मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥
किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि |
मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ||
kímítte viṣṇo paricákṣyam bhūtprá yádvavakṣé śipiviṣṭó asmi ǀ
mā́ várpo asmádápa gūha etádyádanyárūpaḥ samithé babhū́tha ǁ
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha ||
Padapāṭha
किम् । इत् । ते॒ । वि॒ष्णो॒ इति॑ । प॒रि॒ऽचक्ष्य॑म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒ऽवि॒ष्टः । अ॒स्मि॒ ।
मा । वर्पः॑ । अ॒स्मत् । अप॑ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्यऽरू॑पः । स॒म्ऽइ॒थे । ब॒भूथ॑ ॥
किम् । इत् । ते । विष्णो इति । परिऽचक्ष्यम् । भूत् । प्र । यत् । ववक्षे । शिपिऽविष्टः । अस्मि ।
मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्यऽरूपः । सम्ऽइथे । बभूथ ॥
kím ǀ ít ǀ te ǀ viṣṇo íti ǀ pari-cákṣyam ǀ bhūt ǀ prá ǀ yát ǀ vavakṣé ǀ śipi-viṣṭáḥ ǀ asmi ǀ
mā́ ǀ várpaḥ ǀ asmát ǀ ápa ǀ gūhaḥ ǀ etát ǀ yát ǀ anyá-rūpaḥ ǀ sam-ithé ǀ babhū́tha ǁ
kim ǀ it ǀ te ǀ viṣṇo iti ǀ pari-cakṣyam ǀ bhūt ǀ pra ǀ yat ǀ vavakṣe ǀ śipi-viṣṭaḥ ǀ asmi ǀ
mā ǀ varpaḥ ǀ asmat ǀ apa ǀ gūhaḥ ǀ etat ǀ yat ǀ anya-rūpaḥ ǀ sam-ithe ǀ babhūtha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.100.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.25.06
- Maṇḍala · Anuvāka · Ṛk
- 07.06.081
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.