Ṛgveda · Maṇḍala 7 · Sūkta 100
Ṛk 7.100.5
Saṃhitā
प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् ।
तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षयं॑तम॒स्य रज॑सः परा॒के ॥
प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् |
तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ||
prá tátte adyá śipiviṣṭa nā́māryáḥ śaṃsāmi vayúnāni vidvā́n ǀ
tám tvā gṛṇāmi tavásamátavyānkṣáyantamasyá rájasaḥ parāké ǁ
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
Padapāṭha
प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् ।
तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥
प्र । तत् । ते । अद्य । शिपिऽविष्ट । नाम । अर्यः । शंसामि । वयुनानि । विद्वान् ।
तम् । त्वा । गृणामि । तवसम् । अतव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥
prá ǀ tát ǀ te ǀ adyá ǀ śipi-viṣṭa ǀ nā́ma ǀ aryáḥ ǀ śaṃsāmi ǀ vayúnāni ǀ vidvā́n ǀ
tám ǀ tvā ǀ gṛṇāmi ǀ tavásam ǀ átavyān ǀ kṣáyantam ǀ asyá ǀ rájasaḥ ǀ parāké ǁ
pra ǀ tat ǀ te ǀ adya ǀ śipi-viṣṭa ǀ nāma ǀ aryaḥ ǀ śaṃsāmi ǀ vayunāni ǀ vidvān ǀ
tam ǀ tvā ǀ gṛṇāmi ǀ tavasam ǀ atavyān ǀ kṣayantam ǀ asya ǀ rajasaḥ ǀ parāke ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.100.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.25.05
- Maṇḍala · Anuvāka · Ṛk
- 07.06.080
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.