Ṛgveda · Maṇḍala 7 · Sūkta 100

Ṛk 7.100.7

Viṣṇu · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यं ।
वर्धं॑तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् |
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ||

váṣaṭ te viṣṇavāsá ā́ kṛṇomi tánme juṣasva śipiviṣṭa havyám ǀ
várdhantu tvā suṣṭutáyo gíro me yūyám pāta svastíbhiḥ sádā naḥ ǁ

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।
वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिऽविष्ट । हव्यम् ।
वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

váṣaṭ ǀ te ǀ viṣṇo íti ǀ āsáḥ ǀ ā́ ǀ kṛṇomi ǀ tát ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyám ǀ
várdhantu ǀ tvā ǀ su-stutáyaḥ ǀ gíraḥ ǀ me ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

vaṣaṭ ǀ te ǀ viṣṇo iti ǀ āsaḥ ǀ ā ǀ kṛṇomi ǀ tat ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyam ǀ
vardhantu ǀ tvā ǀ su-stutayaḥ ǀ giraḥ ǀ me ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.100.07
Aṣṭaka · Adhyāya · Varga · Ṛk
5.6.25.07
Maṇḍala · Anuvāka · Ṛk
07.06.082
Devatā देवता
Viṣṇu
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.100.7

Interpretations

Sāyaṇa

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येपञ्चमाष्टकेषष्ठोध्यायः ॥ ६ ॥