Ṛk 7.6.2
Saṃhitā
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वंति॒ शं रा॒ज्यं रोद॑स्योः ।
पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥
कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं रोदस्योः |
पुरन्दरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि ||
kavím ketúm dhāsím bhānúmádrerhinvánti śám rājyám ródasyoḥ ǀ
puraṃdarásya gīrbhírā́ vivāse’gnérvratā́ni pūrvyā́ mahā́ni ǁ
kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ |
purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni ||
Padapāṭha
क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः॑ । हि॒न्वन्ति॑ । शम् । रा॒ज्यम् । रोद॑स्योः ।
पु॒र॒म्ऽद॒रस्य॑ । गीः॒ऽभिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि॑ । पू॒र्व्या । म॒हानि॑ ॥
कविम् । केतुम् । धासिम् । भानुम् । अद्रेः । हिन्वन्ति । शम् । राज्यम् । रोदस्योः ।
पुरम्ऽदरस्य । गीःऽभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि ॥
kavím ǀ ketúm ǀ dhāsím ǀ bhānúm ǀ ádreḥ ǀ hinvánti ǀ śám ǀ rājyám ǀ ródasyoḥ ǀ
puram-darásya ǀ gīḥ-bhíḥ ǀ ā́ ǀ vivāse ǀ agnéḥ ǀ vratā́ni ǀ pūrvyā́ ǀ mahā́ni ǁ
kavim ǀ ketum ǀ dhāsim ǀ bhānum ǀ adreḥ ǀ hinvanti ǀ śam ǀ rājyam ǀ rodasyoḥ ǀ
puram-darasya ǀ gīḥ-bhiḥ ǀ ā ǀ vivāse ǀ agneḥ ǀ vratāni ǀ pūrvyā ǀ mahāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.006.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.09.02
- Maṇḍala · Anuvāka · Ṛk
- 07.01.067
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.