Ṛk 7.6.6
Saṃhitā
यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः ।
वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थं॑ ॥
यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः |
वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम् ||
yásya śármannúpa víśve jánāsa évaistasthúḥ sumatím bhíkṣamāṇāḥ ǀ
vaiśvānaró váramā́ ródasyorā́gníḥ sasāda pitrórupástham ǁ
yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ |
vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham ||
Padapāṭha
यस्य॑ । शर्म॑न् । उप॑ । विश्वे॑ । जना॑सः । एवैः॑ । त॒स्थुः । सु॒ऽम॒तिम् । भिक्ष॑माणाः ।
वै॒श्वा॒न॒रः । वर॑म् । आ । रोद॑स्योः । आ । अ॒ग्निः । स॒सा॒द॒ । पि॒त्रोः । उ॒पऽस्थ॑म् ॥
यस्य । शर्मन् । उप । विश्वे । जनासः । एवैः । तस्थुः । सुऽमतिम् । भिक्षमाणाः ।
वैश्वानरः । वरम् । आ । रोदस्योः । आ । अग्निः । ससाद । पित्रोः । उपऽस्थम् ॥
yásya ǀ śárman ǀ úpa ǀ víśve ǀ jánāsaḥ ǀ évaiḥ ǀ tasthúḥ ǀ su-matím ǀ bhíkṣamāṇāḥ ǀ
vaiśvānaráḥ ǀ váram ǀ ā́ ǀ ródasyoḥ ǀ ā́ ǀ agníḥ ǀ sasāda ǀ pitróḥ ǀ upá-stham ǁ
yasya ǀ śarman ǀ upa ǀ viśve ǀ janāsaḥ ǀ evaiḥ ǀ tasthuḥ ǀ su-matim ǀ bhikṣamāṇāḥ ǀ
vaiśvānaraḥ ǀ varam ǀ ā ǀ rodasyoḥ ǀ ā ǀ agniḥ ǀ sasāda ǀ pitroḥ ǀ upa-stham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.006.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.09.06
- Maṇḍala · Anuvāka · Ṛk
- 07.01.071
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.